|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.185. अध्यायः 185
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति पतिव्रताधर्मप्रतिपादकशाण्डिलीसुमनासंवादानुवादः॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
स्त्रीणां हि समुदाचारं सर्वधर्मविदांवर।
श्रोतुमिच्छाम्यहं त्वत्तस्तन्मे ब्रूहि पितामह॥ 13-185-1(88738)
भीष्म उवाच। 13-185-2x(7400)
सर्वज्ञां सर्वतत्त्वज्ञां देवलोके मनस्विनीम्।
कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत॥ 13-185-2(88739)
केन वृत्तेन कल्याणि समाचारेण केन वा।
विधूय सर्वपापानि देवलोकं त्वमागता॥ 13-185-3(88740)
हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा।
सुता ताराधिपस्येव प्रभया दिवमागता॥ 13-185-4(88741)
अरजांसि च वस्त्राणि धारयन्ती गतक्लमा।
विमानस्था शुभा भासि सहस्रगुणमोजसा॥ 13-185-5(88742)
न त्वमल्पेन तपसा दानेन नियमेन वा।
इमं लोकमनुप्राप्ता त्वं हि तत्त्वं वदस्व मे॥ 13-185-6(88743)
इति पृष्टा सुमनया मधुरं चारुहासिनी।
शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत्॥ 13-185-7(88744)
नाहं काषायवसना नापि वल्कलधारिणी।
न च मुण्डा च जटिला भूत्वा देवत्वमागता॥ 13-185-8(88745)
अहितानि च वाक्यानि सर्वाणि परुषाणि च।
अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रवम्॥ 13-185-9(88746)
देवतानां पितॄणां च ब्राह्मणानां च पूजने।
अप्रमत्ता सदा युक्ता श्वश्रूश्वशुरवर्तिनी॥ 13-185-10(88747)
पैशुन्ये न प्रवर्तामि न ममैतन्मनो गतम्।
अद्वारि न च तिष्ठामि चिरं न कथयामि च॥ 13-185-11(88748)
असद्वा हसितं किञ्चिदहितं वाऽपि कर्मणा।
रहस्यमरहस्यं वा न प्रवर्तामि सर्वथा॥ 13-185-12(88749)
कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम्।
आसनेनोपसंयोज्य पूजयामि समाहिता॥ 13-185-13(88750)
यदन्नं नाभिजानाति यद्भोज्यं नाभिनन्दति।
भक्ष्यं वा यदि वा लेह्यं तत्सर्वं वर्जयाम्यहम्॥ 13-185-14(88751)
कुटुंबार्थे समानीतं यत्किञ्चित्कार्यमेव तु।
पुनरुत्थाय तत्सर्वं कारयामि करोमि च॥ 13-185-15(88752)
अग्निसंरक्षणपरा गृहशुद्धिं च कारये।
कुमारान्पालये नित्यं कुमारीं परिशिक्षये॥ 13-185-16(88753)
आत्मप्रियाणि हित्वाऽपि गर्भसंरक्षणे रता।
बालानां वर्जये नित्यं शापं कोपं प्रतापनम्॥ 13-185-17(88754)
अविक्षिप्तानि धान्यानि नान्नविक्षेपणं गृहे।
रक्तवत्स्पृहये गेहे गावः सयवसोदकाः।
समुद्गम्य च शुद्धाऽहं भिक्षां दद्यां द्विजातिषु॥ 13-185-18(88755)
प्रवासं यदि मे याति भर्ता कार्येण केनचित्।
मङ्गलैर्बहुभिर्युक्ता भवामि नियता तदा॥ 13-185-19(88756)
अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम्।
प्रसाधनं च निष्क्रान्ते नामिनन्दामि भर्तरि॥ 13-185-20(88757)
नोत्थापयामि भर्तारं सुखं सुप्तमहं सदा।
आतुरेष्वपि कार्येषु तेन तुष्यति मे मनः।
नोत्थापये सुखं सुप्तं ह्यातुरं पालये पतिम्॥ 13-185-21(88758)
नायासयामि भर्तारं कुटुम्बार्थेऽपि सर्वदा।
गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना॥ 13-185-22(88759)
इमं धर्मपथं नारी पालयन्ती समाहिता।
अरुन्धतीव नारीणीस्वर्गलोके महीयते॥ 13-185-23(88760)
भीष्म उवाच। 13-185-24x(7401)
एतदाख्याय सा देवी सुमनायै तपस्विनी।
पतिधर्मं महाभागा जगामादर्शनं तदा॥ 13-185-24(88761)
यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणि।
स देवलोकं सम्प्राप्य नन्दने स सुखी वसेत्॥ ॥ 13-185-25(88762)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चाशीत्यधिकशततमोऽध्यायः॥ 185 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-185-19 मङ्गलैर्नियतेति मङ्गलसूत्रमात्रं धारयामि नतु ताम्बूलादीनित्यर्थः॥ 7-185-25 पाण्डवाख्यानं पाण्डवेति च्छेदः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|